Upasana

श्रीधर स्तोत्रम्

मोक्षनंदनिधीं सुशांतिनिलयं भ्रान्तिच्छिदं ज्ञानदं ।
संसारार्णवतारकं मुनिनुतं वेदान्तवेद्य विभुम्।
भूमाख्येयमनन्तवीर्यमतुलं मोक्षेच्छुनां जीवनम् ।
वन्दे सद्गुरू श्रीधरं भवहरं सिद्धांतरत्नाकरम ।। १ ।।

धर्मोद्धारधुरिणमद्भुतमहो धर्मध्व्जध्येयिनम् ।
ध्यानेनोधृतिशुध्दबुध्दितयं धर्मिष्ठगेयं गुरुम् ।
वेदांताम्बुधीमन्थनोदभवसुधा वाङ्मधुरीधरिणम् ।
वन्दे सद्गुरू श्रीधरं भवहरं सिद्धांतरत्नाकरम ।। २ ।।

सद्बोधामृतवर्षींणं सुखघनं कामेभपंचाननम् ।
अज्ञानान्धतमोविदारणपटु श्रेष्ठप्रभाभास्करम् ।
मायारण्यविनाशनद्यतमहाप्रज्वालीदावानलम् ।
वन्दे सद्गुरू श्रीधरं भवहरं सिद्धांतरत्नाकरम् ।। ३ ।।

सद्भक्तांतरमोहसर्पगरूडं त्रैतापचंद्रोदयम् ।
संसाराम्बुधिकुंभज शुभतम भक्तेष्टकल्पद्रुमम् ।
प्रारब्धोद्यतमोक्षविघ्नघनभिद्वयु प्रचंड परम् ।
वन्दे सद्गुरू श्रीधरं भवहरं सिद्धांतरत्नाकरम् ।। ४ ।।

स्वज्ञानस्थितविश्वमेवमखिलं जिवेशबन्दादिकम् ।
मत्वादुःखमतीवसंसृतिभया सोङवासुखिन्न यतः ।
विश्वस्योद्धारणार्थमेवही मुदा तद्ब्रह्मरुपादिमत्।
वन्दे सद्गुरू श्रीधरं भवहरं सिद्धांतरत्नाकरम् ।। ५ ।।

ज्ञानवैराग्यमैश्वर्य भक्तिमुक्तिसुविद्यता।
अस्य स्तोत्रस्य पाठेन सद्भीष्ट्मवाप्नुयात् ।।

end-content-img